Posts

Showing posts from July, 2019

संस्कृतेन एव विश्वे जागरणम्

पुणे - संस्कृतभाषया भारतं पुनः विश्वगुरुपदं प्राप्स्यति । संस्कृतं स्वीयं गौरवपूर्णं स्थानं पुनः लप्स्यते । इत्युद्गाराः संस्कृतभारत्याः अखिल भारतीय प्रचारमन्त्रिणा शिरीष भेडसगांवकरेण पुणेस्थिते सावरकरस्मृतिभवने समायोजिते संस्कृतदिवससमारोहे प्रकाशिताः । असौ तत्रोपस्थितान्संस्कृतानुरागिणः, सामाजिकात् च सम्बोधयति स्म । तेन ज्ञापितं भारतस्य गौरवमत्रं स्वर्णमयं स्वरूपं आसीत् । यतो हि पूर्वं संस्कृतं न केवलं शिक्षणे, प्रशासने, अर्थनीत्यां, कृषिक्षेत्रादिषु आसीत् अपितु नाटकादि मनोविनोदसाधनेष्वपि प्रावर्तत । अस्माकं ऋषिभिः निर्दिष्यः समरसता, समानाः विचाराः - बन्धुत्व भावना -संगठनभावाः सदृशाः उपदेशाः अस्मामिः विस्मृताः । अतएव अद्यतन चिन्ताकरीस्थितिः जायते । भारतस्यवैभवमपि तादृशं न विद्यते, न हि परस्परं आत्मभावःद्यश्यते देशस्यापि सततं अवनतिः भवति । शिरीषमहोदयैः पुनं प्रबलं ज्ञापितंयत् देशस्य उन्नत्यै अस्माकं जागरणं समभावस्थापनं संस्कृतेनैव प्राप्तुंशस्यते । संस्कृतपठनेन अस्माकं ऋषिवचनानां पालनं भविष्यति । तेषां वचनानांअनुपालनेन तत्र निहिताचरणेनैव भारतीयानां उन्नतिः प्राप्तुं शक्यते । रा