संस्कृतेन एव विश्वे जागरणम्

पुणे -

संस्कृतभाषया भारतं पुनः विश्वगुरुपदं प्राप्स्यति । संस्कृतं स्वीयं
गौरवपूर्णं स्थानं पुनः लप्स्यते । इत्युद्गाराः संस्कृतभारत्याः अखिल
भारतीय प्रचारमन्त्रिणा शिरीष भेडसगांवकरेण पुणेस्थिते सावरकरस्मृतिभवने समायोजिते संस्कृतदिवससमारोहे प्रकाशिताः । असौ तत्रोपस्थितान्संस्कृतानुरागिणः, सामाजिकात् च सम्बोधयति स्म । तेन ज्ञापितं भारतस्य गौरवमत्रं स्वर्णमयं स्वरूपं आसीत् ।

यतो हि पूर्वं संस्कृतं न केवलं शिक्षणे, प्रशासने, अर्थनीत्यां,
कृषिक्षेत्रादिषु आसीत् अपितु नाटकादि मनोविनोदसाधनेष्वपि प्रावर्तत । अस्माकं ऋषिभिः निर्दिष्यः समरसता, समानाः विचाराः - बन्धुत्व भावना -संगठनभावाः सदृशाः उपदेशाः अस्मामिः विस्मृताः । अतएव अद्यतन चिन्ताकरीस्थितिः जायते ।

भारतस्यवैभवमपि तादृशं न विद्यते, न हि परस्परं आत्मभावःद्यश्यते देशस्यापि सततं अवनतिः भवति । शिरीषमहोदयैः पुनं प्रबलं ज्ञापितंयत् देशस्य उन्नत्यै अस्माकं जागरणं समभावस्थापनं संस्कृतेनैव प्राप्तुंशस्यते । संस्कृतपठनेन अस्माकं ऋषिवचनानां पालनं भविष्यति । तेषां वचनानांअनुपालनेन तत्र निहिताचरणेनैव भारतीयानां उन्नतिः प्राप्तुं शक्यते ।

राष्ट्रीय जागरणेन, संस्कृतस्यसंरक्षणेन प्रचारेण च भारतं पुनः
विश्वगुरुपदं प्रतिष्ठितं भविष्यति ।

Comments

Popular posts from this blog

મહાકવિ કાલિદાસની કાવ્યકૃતિ "ઋતુસંહાર"

સંસ્કૃત સાહિત્યનાં મહાકવિ અને મહાન નાટ્યકાર કાલિદાસ

જાણો સંસ્કૃત નાટકો વિષે.